श्रीगीतसीतावल्लभे शृङ्गारयोजना

Authors(1) :-विक्रान्तसाहुः

श्रीगीतगोविन्दमाधारीकृत्य रचितं प्रत्येकमपि गीतिकाव्यं मधुरकोमलकान्तपदावली-युक्तमवश्यमेव भवति। अत्र सहृदयानां रसास्वाद: अक्लेशेन जायते । तत्रापि प्रायश: सर्वेषु एतादृशेषु गीतिकाव्येषु शृङ्गाररसस्य प्राधान्यमेव दृश्यते । सर्वेषु रसेषु शृङ्गार: रसराज: इति कथ्यते । यदा कवि: शृङ्गारी भवति तदा तस्य काव्यं जगद्रसमयं करोति । यदि सैव कवि: अशृङ्गारो भवति, तर्हि सर्वं निरसं प्रतीयते । ध्वन्यालोककारेण तदेवोच्यते - शृङ्गारी चेत्कवि: काव्यं जातं रसमयं जगत् । स एव चेदशृङ्गार: नीरसं सर्वमेव तत् ।। एवं गीतिकाव्यरचनापरम्परायां श्रीजयदेव: शृङ्गारी कविरिति नाम्ना प्रसिद्ध:। तस्य काव्यञ्च शृङ्गाररसप्रधानमेव, यत्र विप्रलम्भसम्भोगयो: द्वयोरपि शृङ्गारभेदयो: आस्वाद: आसमाप्तिं यावत् सहृदयै: कर्तुं शक्यते । आरम्भे राधाकृष्णयो: विप्रलम्भ: अन्ते च तयो: सम्भोग: अत्युत्कृष्टतया श्रीजयदेवेन उपस्थापित:। अनेन काव्येन अनुप्राणित: कवि: श्रीशितिकण्ठो नाम श्रीरामचरित्रमाधारीकृत्य ’गीतसीतावल्लभम्“ इत्याख्यं काव्यं रचयामास, यत्खलु सहृदयसमाजे रामसेवकसमाजे च अतीव प्रियतमं प्रतिभाति । अस्मिन्नेव काव्ये शृङ्गाररसस्य पर्यालोचनम् अस्य शोधप्रबन्धस्य प्रमुखं लक्ष्यं भवति। अत्र विशिष्टतया पञ्चवट्यां पर्णशालायां सीतारामयो: शृङ्गारोद्दीपकवर्णना, सूर्पणखामाध्यमेन रामरतिसन्दर्भे वर्णना, मुग्धा नायिका सीता, कैकेयीमानावसरे दशरथस्य प्रणयवचनम् इत्येते विषया: प्राधान्येन आलोतितास्सन्ति। प्रसङ्गात् कवेः शितिकण्ठस्य तत्कृतेः गीतसीतावल्लभस्य च परिचयोऽपि संक्षेपेणात्र उपस्थापितः।

Authors and Affiliations

विक्रान्तसाहुः
शोधच्छात्रः साहित्यविभागः, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, भारत।

पञ्चवटीपर्णशाला, सूर्पणखाप्रणयवचनम्, रामरति, मुग्धा सीता, कैकेयीमानम्, दशरथप्रणयवचनम्।

  1. 1. सा.द. - 3/183-186
  2. 2. गी.सी.व. - 4/1/1
  3. 3. सा.द. - 3/58
  4. 4. ल.टी. - पृ.112
  5. 5. गी.सी.व. - 5/2
  6. 6. गी.सी.व. - 5/द्वितीयप्रबन्ध:
  7. 7. गी.सी.व. - 10/1
  8. 8. तत्रैव - 10/1/1
  9. 9. गी.सी.व. - 10/4
  10. 10. तत्रैव - 8/ प्रथमप्रबन्ध:

Publication Details

Published in : Volume 4 | Issue 1 | January-February 2021
Date of Publication : 2021-02-28
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 52-57
Manuscript Number : GISRRJ120338
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

विक्रान्तसाहुः, "श्रीगीतसीतावल्लभे शृङ्गारयोजना ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 1, pp.52-57, January-February.2021
URL : https://gisrrj.com/GISRRJ120338

Article Preview