स्वातन्त्र्योत्तरसंस्कृतकथासाहित्ये भारतीय-शिक्षाव्यवस्था

Authors(1) :-Debashish Natta

वर्तमाने विज्ञानप्रविधेः युगे समग्रविश्वे आधुनिकतायाः प्रभावः दृश्यते। अस्याः आधुनिकतायाः प्रभावेन परम्परागत-भारतीयमूल्येषु, शिक्षाव्यवस्थासु, सामाजिक-संस्थासु, सामाजिक-संरचनासु च अत्यधिकं परिवर्तनं सञ्जातम्। अस्याः परिवर्तित-मानसिकतायाः फलस्वरूपं हिंसा स्वार्थपरता च क्रमशः वर्धते। भारतीयदर्शनस्य मूलमन्त्रः, जीवप्रेमः, करुणा, परोपकारः, विश्वबन्धुत्वभावना प्रभृतयः लुप्तप्रायाः इति परिलक्ष्यते। सर्वत्र अराजकता व्याप्तेति दृश्यते। अस्याः दुरावस्थायाः प्रमुखकारणं भवति साम्प्रतिकी विश्रृङ्खलिता दुर्नीतिपरायणा, अनियन्त्रिता, भ्रष्टाचारयुक्ता च शिक्षाव्यवस्था। सम्प्रति शिक्षापेक्षया धनस्य महत्त्वमस्त्यधिकम्। वर्तमाने सामाजिक-परिवर्तनेन सह जीवनशैल्याम् आचार-व्यवहारेष्वपि च परिवर्तनं सञ्जातम्। अतः परिवर्तितेऽस्मिन् परिवेशे विविधशिक्षाप्रतिष्ठानेषु आवश्यकतानुसारं व्यवहारिकी, प्रायोगिकी, उपयोगी च शिक्षा-प्रणाली भवेदिति कामये। शिक्षयैव समाजे शान्ति-सौहार्द-मित्रतादिभावनाः जाग्रताः भवन्ति। राष्ट्रस्य उन्नतये मानवतायाः उर्ध्वगामिविकासाय च शिक्षैव आसीत् साधिका। किन्तु शिक्षायाः तद्रूपं सम्प्रति परिवर्तितम्। संसारम् उचितदिशाप्रदानकारिण्याः अस्याः शिक्षायाः या दुर्दशा अधुना अस्ति तदेव साम्प्रतिक-संस्कृतकथाकारैः तेषां कथाभिः प्रदर्शिता। पुनः कथं समुचितशिक्षा, सुशृङ्खलित-समाजव्यवस्था, व्यक्तिस्वतन्त्र्यता प्रभृतयः प्रतिस्थापनीयाः इत्येतेष्वपि विषयेषु स्वातन्त्र्योत्तर-संस्कृतकथाकारैः प्रतिनियतं चर्चा क्रियते एव।

Authors and Affiliations

Debashish Natta
Assistant Professor, Department of Sanskrit, Balurghat College (W.B), India

शिक्षा-व्यवस्था, स्रीशिक्षा, गुरुमहत्त्वम्, गुरुशिष्य-परम्परा, शिक्षायाः दुर्दशा।

  1. अकिञ्चनस्यौदार्यम् : संस्कृतकथाकुञ्जम्, डा. गणेशराम शर्मा, पृष्ठसंख्या-51
  2. अपूर्वस्त्यागः : अभिनवकथानिकुञ्जः,श्री रामेश्वर शास्त्री, पृष्ठसंख्या-134
  3. शुक्लधान्यम् : दिशा-विदिशा, डा. केशवचन्द्रदाशः, पृष्ठसंख्या-59
  4. सिद्धो रासायनिकः : संस्कृतकथाकुञ्जम्, डा. गणेशराम शर्मा, पृष्ठसंख्या-7
  5. स्पर्धा : संस्कृतकथाकुञ्जम्, डा. गणेशराम शर्मा, पृष्ठसंख्या-135
  6. अपाला आत्रेयी : अभिनवकथानिकुञ्जः, श्रीदेवकीनन्दन शास्त्री, पृष्ठसंख्या-146
  7. शुक्लधान्यम् : दिशा-विदिशा, डा. केशवचन्द्रदाशः, पृष्ठसंख्या-59
  8. अपराजिता : अपराजिता, डा. वीणापाणि पाटनी, पृष्ठसंख्या-1
  9. सापराधः : राजस्थानस्याधुनिका संस्कृतकथालेखिका, डा. गणेशराम शर्मा, पृष्ठसंख्या-36
  10. प्रायश्चित्तम् : सिद्धेश्वरी वैभवम्, द्वारकाप्रसाद शास्त्री, पृष्ठसंख्या-29
  11. विंशद्विश्वाविडम्बना : सिद्धेश्वरी वैभवम्, द्वारकाप्रसाद शास्त्री, पृष्ठसंख्या-25
  12. चञ्चा : राङ्गडा, डा. राजेन्द्र मिश्रः, पृष्ठसंख्या-27
  13. कपटस्य नियतिः : सिद्धेश्वरी वैभवम्, द्वारकाप्रसाद शास्त्री, पृष्ठसंख्या-57
  14. सहयात्री : अभिनवकथानिकुञ्जः, श्रीधरपन्तः, पृष्ठसंख्या-111
  15. मर्यादा : कथा मुक्तावली, देवर्षि कलानाथ शास्त्री, पृष्ठसंख्या-99
  16. पञ्जरशुकः : एकादशी, डा. इच्छाराम द्विवेदी, पृष्ठसंख्या 51-52
  17. श्वेताश्वतरोपनिषद्
  18. कोटरम् : ऊर्मिचूडा, डा केशवचन्द्रदाशः, पृष्ठसंख्या-93
  19. कोटरम् : ऊर्मिचूडा, डा केशवचन्द्रदाशः, पृष्ठसंख्या-93
  20. पितामही मिलिता : राजकथाकुञ्जम्, डा. नारायण शास्त्री काँकरः, पृष्ठसंख्या-29
  21. कालकण्ठः : : ऊर्मिचूडा, डा केशवचन्द्रदाशः, पृष्ठसंख्या-125
  22. राष्ट्रनिर्माता : राजस्थानस्याधुनिका संस्कृतकथालेखिका, ईश्वरचन्द्र शर्मा, पृष्ठसंख्या-99
  23. पितामही मिलिता : राजकथाकुञ्जम्, डा. नारायण शास्त्री काँकरः, पृष्ठसंख्या-30
  24. दम्भज्वरः : कथानकवल्ली, देवर्षि कलानाथ शास्त्री, पृष्ठसंख्या-94
  25. अभ्यागतः : दिशा-विदिशा, डा. केशवचन्द्रदाशः, पृष्ठसंख्या-109
  26. प्रतिष्ठा : ऊर्मिचूडा, डा केशवचन्द्रदाशः, पृष्ठसंख्या-33
  27. उपलपथे : दिशा-विदिशा, डा. केशवचन्द्रदाशः, पृष्ठसंख्या-164
  28. चन्द्रशाला : दिशा-विदिशा, डा. केशवचन्द्रदाशः, पृष्ठसंख्या-133
  29. निरीक्षणम् : एकादशी , डा. इच्छाराम द्विवेदी, पृष्ठसंख्या-24
  30. अपराजिता : अपराजिता, डा. वीणापाणि पाटनी, पृष्ठसंख्या-1
  31. दिग्भ्रमः : कथानकवल्ली, देवर्षि कलानाथ शास्त्री, पृष्ठसंख्या-60

Publication Details

Published in : Volume 4 | Issue 1 | January-February 2021
Date of Publication : 2021-02-28
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 65-74
Manuscript Number : GISRRJ120340
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

Debashish Natta, "स्वातन्त्र्योत्तरसंस्कृतकथासाहित्ये भारतीय-शिक्षाव्यवस्था", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 1, pp.65-74, January-February.2021
URL : https://gisrrj.com/GISRRJ120340

Article Preview