बौद्धेतर-प्रमाणानाम् बौद्धप्रमाणयोः अन्तर्भावः

Authors(1) :-डॉ. प्रदीपकुमारद्विवेदी

बौद्धन्यायपरम्परायां द्वयोः प्रमाणयोः चर्चा वर्तते- प्रत्यक्षप्रमाणम् अनुमानप्रमाणञ्च। प्रत्यक्षप्रमाणस्य चत्वारो भेदाः सन्ति- इन्द्रियप्रत्यक्षम्, मानसप्रत्यक्षम्, स्वसंवेदनम्, योगिज्ञानञ्च। अनुमानप्रमाणस्य द्वौ भेदौ स्तः – स्वार्थानुमानम् परार्थानुमानञ्च। बौद्धेतरः, वैदिकन्यायपरम्पराद्वारा प्रत्यक्षानुमानप्रमाणाभ्यामतिरिक्तं शब्द-उपमान-अर्थापत्ति-अभाव-सम्भव-एतिह्यादिप्रमाणानि स्वीक्रियते। परन्तु, बौद्धदार्शनिकाचार्यशान्तिरक्षितेन तत्त्वसङ्ग्रहः नामके ग्रन्थे उपरोक्तः सर्वाणि प्रमाणानि पूर्वपक्षे स्थाप्य, बौद्धसिद्धान्तानामाधारे खण्डनं क्रियते। आचार्यशान्तिरक्षितस्य मतं वर्तते यत् शब्द-उपमान-अर्थापत्ति-अभाव-सम्भव-एतिह्यादिप्रमाणां समायोजनं प्रत्यक्षानुमानप्रमाणयोः एव सञ्जायते, अतः अन्येषां प्रमाणानामावश्यक्तैव नास्ति। शोधपत्रेऽस्मिन् बौद्धेतर अन्येषां प्रमाणानां द्वयोः प्रमाणयोः अन्तर्भावविषयकी चर्चा वर्तते।

Authors and Affiliations

डॉ. प्रदीपकुमारद्विवेदी
बौद्धदर्शनविभागः, राष्ट्रियसंस्कृतसंस्थानम्, एकलव्यपरिसरः, अगरतला, त्रिपुरा

प्रमाणानि, बौद्धदर्शनाचार्यः, शान्तरक्षितः, बौद्धदार्शनिकाः, वैशेषिकाः,दार्शनिकाः|

  1.  न प्रमाणानतरं शब्दमनुमानम् तथा हि सः। (तत्त्वसंग्रहपञ्जिका, का. सं. -1514)
  2.  हि वाच्यैर्वस्तुभिः सह कश्चित् तादात्म्यलक्षणः तदुत्पत्तिलक्षणो वा प्रतिबन्धो वचसामस्ति। (तत्त्वसंग्रहपञ्जिका, का. सं. - 1512)
  3.  नान्तरीयकता भावाच्छब्दानां वस्तुभिस्सह। नार्थसिद्धिस्ततस्ते हि वक्त्रभिप्रायसूचकाः। (प्र.वा. 3.213-214)
  4.  शाब्देऽप्यभिप्रायनिवेदनात्। प्रमाण्यं तत्र शब्दस्य नार्थतत्त्वनिबन्धनम्। (प्रमाणवार्तिकम्-1.3-4)
  5.  वचोभ्यो निखिलभ्योऽपि विवक्षैषानुमीयते।प्रत्यक्षानुपलम्भाभ्यां तद्हेतुः सा हि निश्चिता।। (तत्त्वसंग्रहः, का. सं. - 1514)
  6. ये पुनस्तासु लिङ्गभूतासु गीर्षु विशेषं नावधारयन्ति, तेषामयं दोषः न तु लिङ्गस्य। (तत्त्वसंग्रहपञ्जिका, का. सं. - 1517)
  7.  विवक्षायां च गम्यायां विस्पष्टैव त्रिरूपता। पुंसि धर्मिणि सा साध्या कार्येण वचसा यतः।। (तत्त्वसंग्रहः, का. सं. – 1520)
  8. आप्तवादाविसंवादसामान्यादनुमानता। (प्रमाणवार्तिकम्- 217)
  9. अर्थज्ञापनहेतुर्भि संकेतः पुरुषाश्रयः। (प्रमाणवार्तिकम्- 3.227)
  10.  बौद्धदर्शन में प्रमाणमीमांसा, पृ. सं. - 99
  11. . प्रमाणसमुच्चय, 5-1, (तत्त्वसंग्रहपञ्जिका, का. सं. - 529) (स्वार्थमन्यापोहेन भाषते)
  12. . तत्र केचिद् बौद्धाः परिहारमाहुः- न खल्वपोह्यभेदाद्, आधारभेदाद् वा अपोहानां भेदः, वासनाभेदाद् भेदः सद्रूपता चापोहानां भविष्यति। (तत्त्वसंग्रहपञ्जिका, का. सं. - 959)
  13.  तथापि द्विविधोऽपोहः पर्युदासनिषेधतः। द्विविधः पर्युदासोऽपि बुद्ध्यात्मार्थात्मभेदतः।। (तत्त्वसंग्रहः, का. सं. – 1003)
  14. यज्ज्ञाने भात्यर्थप्रतिबिम्बकम्। (तत्त्वसंग्रहः, का. सं. - 1005)
  15.  प्रसज्यप्रतिषेश्च गौरगौर्न भवत्ययम्। अतिविस्पष्ट एवायमन्यापोहो{वगम्यते।। (तत्त्वसंग्रहः, का. सं. - 1009)
  16.  तत्रयं प्रथमः शब्दैरपोहः प्रतिपाद्यते बाह्यार्थाध्यवसायिन्या बुद्धेः शब्दात् समुद्भवात्।। (तत्त्वसंग्रहः, का. सं. - 1011 तद्रूपप्रतिबिम्बस्य धियः शब्दाच्य जन्मनि। वाच्यवाचकभावोऽयं जातो हेतुफलात्मकः।।(तत्त्वसंग्रहः, का-सं--1012). एवं तावत् प्रतिबिम्बलक्षणोऽपोहः साक्षाच्छब्दैरूपजन्यमानत्वात् मुख्यः शब्दार्थ इति। (तत्त्वसंग्रहपञ्जिका, का. सं. - 1012)
  17.  तत्त्वसंग्रहपञ्जिका, का. सं. -1012
  18.  तत्त्वसंग्रहपञ्जिका, का. सं. - 1013-1014
  19.  बौद्धतर्कभाषा, पृ. सं. - 16-17 (दृष्टव्यः, तत्त्वसंग्रहपञ्जिका, का. सं.- 1542-1585) क्षपाभोजनसम्बन्धी पुमानिष्टः प्रतीयते । दिवाभोजनवैकल्यपीनत्वेन तदन्यवत् ।। भोजने सति पीनत्वमन्वयव्यतिरेकतः । निश्चितं तेन सम्बद्धाद् वस्तुनो वस्तुतो गतिः ।। तत्त्वसंग्रहः, का. सं. - 1622-1623
  20. तत्त्वसंग्रहपञ्जिकाः, का. सं. - 1679-1682
  21. बौद्धदर्शन में प्रमाण मीमांसा- पृ. सं. - 98
  22.  बौद्धतर्कभाषा, पृ. सं. 18, 19
  23. तत्त्वसंग्रहः, का. सं. - 1698
  24. ऐतिह्यप्रतिभादीनां भूयसा व्यभिचारिता । नैवेदृशां प्रमाणत्वं घटतेऽतिप्रसङ्गतः ।। तत्त्वसंग्रहः, का. सं. - 1699, पञ्जिका च।

Publication Details

Published in : Volume 2 | Issue 3 | May-June 2019
Date of Publication : 2019-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 106-110
Manuscript Number : GISRRJ192318
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डॉ. प्रदीपकुमारद्विवेदी, "बौद्धेतर-प्रमाणानाम् बौद्धप्रमाणयोः अन्तर्भावः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 3, pp.106-110, May-June.2019
URL : https://gisrrj.com/GISRRJ192318

Article Preview