Manuscript Number : GISRRJ192611
ब्राह्मणग्रन्थस्य वैशिष्ट्यम्
Authors(1) :-डाँ राजकिशोर मिश्रः तत्र विधीनामेव विधानम् स्वीकार्यम् विधि विषयं तु स्पष्टरूपेणापादितम्। परन्तु हेतु निर्वचननिन्दादि उदाहरण नोपस्थापितम्। यतो हि कात्यायनेनापि”विधिर्निन्दा प्रशंसाSध्यात्ममधिदेवतमधिभूतमनुवचनं परकृतिःपुराकल्पःसृष्टिरिति व्राहमणम्”उक्तवान् हेतु- तेन ह्यन्नं क्रियते” निर्वचनम्-”इन्धे ह वा एतदध्वर्युरिध्मेनाग्निम्”तस्मादिध्मो नाम निन्दा -”तदु ह स्माहापि बकुर्वाष्णौ माषान्मे पचत न वा एतेषां हविर्गृणन्तीति तदु तथा न कुर्यात्” प्रशंसा अग्निर्वै देवानाम्मृदुहृदयतमः। यं वै मृदुहृदयतमं मन्येत तमुपधावेत्।तस्मादग्नय एव संशय-”स यदि पुरा मानुषी वाचं व्याहरेत्” विधिःस एष उभयत्राच्युत आग्नेयोSष्टाकपालःपुराडाशो भवति पराकृतिः- (परक्रिया)” पुरुषो ह नारायणोSकामयत” पुराकल्पः ”एतेन हेन्द्रातो दैवापःशौनको जनमेजयं पारिक्षितं याजयाञ्चकार” व्यवधारणकल्पना-स दानमेव यज्ञो यावत्यस्य मात्रा तावन्तमेवैतत् परिगृह्णाति” उपमान तदु हापि पाञ्चित्र्यंगुलामेव सौम्यस्याध्वरस्य वेदि चक्रे कात्यायन मते तु उक्तेषु विध्यादिषु पञ्चैवव संगृहीतं वर्तते ते च विधि निन्दा प्रशंसा परकृति पुराकल्प अनन्तरं षड् अव- शिष्टाः सन्ति ते च अध्यात्मम् अधियज्ञम् अधिदेवतम् अधिभूतम् अनुवचनम् सृष्टिः एषु यथाक्रमेणोदाहरामि-अध्यात्मम्- अथाध्यात्मम् प्राणो वा अर्कः। तस्यान्न्मेव कम् अन्नं हि प्राणाय कर्म इति नु एवार्कस्य अधियज्ञम्-अथाधियज्ञम् यदेवाग्नावन्नमुपधीयते तदन्नम्।या आपस्तत्पानम्।परिश्रित एव श्रीः अधिदेवतम्-”अथाधिदेवतम् या वै सा वागग्निरेव सः। यत्तच्चक्षुःअसौ स आदित्यः अधिभूतम्-”तस्मादाहुर्यावती वेदिस्तावती पृथीवीति” अथवा”अयं वाव लोक एषोSग्निश्चितः।तस्याप एव परिश्रितःइत्याद्यभिधायन्ते”एनं भूतमेतत्सर्वमभिसम्पद्यते” अनुवचनम्-”अग्निर्वै हिमस्य भेषजम्” सृष्टिः-”असद्वा इदमग्र आसीत्”इत्यादि वाचस्पतिमिश्रेण नैरुक्तं यस्य मन्त्रस्य विनियोगःप्रयोजनम्।प्रतिष्ठानं विधिश्चैव ब्राह्मणं तदिहोच्यते इत्येवं याज्ञवल्क्यस्य ब्राह्मणस्य तु लक्षणम्”प्रत्यभिज्ञापितम्।यथा अथाभ्यद्यय जपति”-”सूर्यस्त्वापुरस्तात्पातु कस्याश्चिदभिशस्त्यै” गुप्त्यै वाSअभितःपरिधयो भवंति।अथैतत्सूर्यमेव पुरस्ताद्गोप्तारं करोति नेत्पुरस्तान्नाष्ट्रा रक्षांस्यभ्यवचरानिति।सूर्यो हि नाष्ट्राणां रक्षसामपहन्ता” वृहदारण्यकोपनिषदि वाचस्पत्यमिश्रेणव्यारव्यानावसरे ब्राह्मण लक्षणमुच्यते इतिहासःपुराणं विद्या उपनिषदःश्लोकाःसूत्राण्यनु-व्यारव्यानानि इतिहासः-मनवे हवै प्रातरवनेग्यमुदकमाजहुः यथेदं पाणिभ्यामवनेजनायाहरन्ति एवम्।तस्यावनेनिजानस्य मत्स्यःपाणि आपेदे” पुराणम्-”असद्वा इदमग्र आसीत्” विद्या-देवयजनविद्या वेदःसोSयमिति” उपनिषदःप्रियमित्येनदुपासीत” श्लेकाःब्राह्मणप्रभवाःमन्त्राःतदप्येते श्लोकाःअणुःपंथा वितरः” सूत्राणि-वस्तुसंग्राहकवाक्यानि वेदे आत्मत्येवोपासीत” अनुव्यारव्यानानि मन्त्रविवरणानि अपर रूपेण वस्तुसंग्राहकवाक्यानां विवरणवाक्यानि-”सत्यं चैवानृतं च सत्यमेव देवाःअनृतं मनुष्याः व्याख्यानानि अर्थवादाःअथवा मेधया हि तपसाSजनयत्पिता” इत्यादीनि मन्त्रविवरणानि। उपरि उल्लिखिताःत्रिविधा एव अस्मिन् ब्राह्मणे शैली लक्ष्यते।
डाँ राजकिशोर मिश्रः विधि, देवाः, अर्थवादाः, ब्राह्मणे शैली, पुराणम्, ब्राह्मणग्रन्थस्य Publication Details Published in : Volume 2 | Issue 5 | September-October 2019 Article Preview
सहायक प्राध्यापकः/वेद विभागः, बाबा साहेब राम संस्कृत महाविद्यालयः, पचाढी, दरभंगा, भारत।
Date of Publication : 2019-09-30
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 53-60
Manuscript Number : GISRRJ192611
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ192611