संस्कृताध्येतृभ्यः औद्योगिकाः मार्गाः

Authors(1) :-लक्ष्मीनारायण जेना

सामान्यस्नातकपदवीधरस्य अपेक्षया साधारणसंस्कृतस्नातकस्य कृते औद्योगिकाः मार्गाः विभिन्नाः अनेके च। यदि संस्कृते विशेषाध्ययनं चिकीर्षति तस्य कृते स्वस्य एव विषयस्य पाठने संशोधने च अपि च संस्कृतसम्बद्धक्षेत्रेषु इतरप्रकारेषु यथा भारतीयतत्त्वशास्त्रे, प्राचीनभारतेतिहासे, पुरातत्त्वशास्त्रे, प्राचीनलिपिशास्त्रेषु च सदवकाशाः बहवः। यदि कश्चन संस्कृतज्ञः संस्कृतिदृष्ट्या साहित्यदृष्ट्या वा परिणतः तर्हि सः लेखकरूपेण अथवा सांस्कृतिकसंस्थानां समायोजनेन सह स्वस्य उद्योगं प्राप्तुं शक्नोति । भारतीय प्रशासनिक सेवा अपि च अन्य केन्द्र लोकसेवा आयोगस्य बहुषु परीक्षासु संस्कृतम् एकः विषयः अस्ति। संस्कृतवित् स्नातकः कश्चन तादृशपरीक्षां स्वीकर्तुं शक्नोति। विशिष्य एतदवगतं यत् संस्कृतज्ञाः राष्ट्रस्तरे अपि च विदेशस्थ भारतीय राज्यभारकार्यालयेषु सांस्कृतिकप्रभारीरूपेण कार्यं कर्तुं योग्याः भवन्ति इति। यदि कश्चन साम्प्रदायिकः पण्डितः भवति तर्हि तस्मै न केवलं पाठशालासु अपि तु सामान्यशालासु, कलाशालासु, संशोधनविभागेषु च सर्वदा अवसराः सन्त्येव। येषां कृते शास्त्रज्ञानं सम्यक् अस्ति तेषां कृते विशिष्य विश्वविद्यालयीय संशोधनविभागेषु, संशोधनसंस्थासु, विशेषसंशोधनपरियोजनासु च आयोगेन निवेदनं कृतम्। अपि च आयोगेन पाठशालासु संशोधनविभागम् उद्घाटयितुम् अपि च संस्कृतविश्वविद्यालयानां स्थापनार्थम् अभ्यर्थितम् अस्ति। एतेषु सर्वेष्वपि क्षेत्रेषु पण्डितस्य उद्योगार्थम् अवसराः अनेके एव।

Authors and Affiliations

लक्ष्मीनारायण जेना
शोधच्छात्रः (शिक्षाविभागः), केन्द्रीयसंस्कृतविद्यापीठम्, तिरुपतिः, भारत

  1. संस्कृतसाहित्येतिहासः ।
  2. संस्कृतशिक्षानीतिः १९५६-५७ ।
  3. Trends in vocational Education and Training Research, Vol.II
  4. Academy of Entrepreneurship Journal
  5. Education : Vocational Training Dominates Slovene Education Priorities

Publication Details

Published in : Volume 3 | Issue 2 | March-April 2020
Date of Publication : 2020-04-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 68-70
Manuscript Number : GISRRJ203213
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

लक्ष्मीनारायण जेना, "संस्कृताध्येतृभ्यः औद्योगिकाः मार्गाः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 2, pp.68-70, March-April.2020
URL : https://gisrrj.com/GISRRJ203213

Article Preview