Manuscript Number : GISRRJ203347
वैदिकवाङ्मये वायुतत्त्वविमर्शः
Authors(1) :-आचार्य (डॉ.) बृहस्पतिमिश्रः एतत् तथ्यम् अस्ति यत् वयं प्रतिदिनम् प्रायः 22000 वारं श्वासान् स्वीकुर्मः एतदर्थं च 16 षोडश किलोमितं वायुः आवश्यको भवति।स्पष्टमस्ति यत् एकेन जनेनोपभुक्तवायोः प्रमाणमेतत्तस्य भोजनस्य जलस्य च कुलमात्रायाः बहुरधिकं वर्तते। लौकिकव्यवहारेऽपि वयमेतदनुभवामो यत् भोजनं विना सप्ताहं विना जीवितुं शक्यते जलं विनापि कतिचित् दिनानि यापयितुं शक्यन्ते परन्तु वायुं विना तु होरापर्यन्तमपि जीवनस्य कल्पनया एव रोमाञ्चो भवति। प्राचीनवैदिकसाहित्ये वायोरतिशयमहनीयतां स्वीकुर्वन् प्राणत्वेन सम्बोधितोस्ति। वैदिकवाङ्मयेषु वायुतत्त्वस्य विशदं विवेचनं प्राप्यते।सृष्टिप्रक्रियाक्रमे वायुः आकाशादुत्पन्नः मन्यते। आकाशादनन्तरं प्रादुर्भूतोऽयं वायुः अग्निजलपृथ्विगुणान् रूपरसगन्धान् धारयन् एव स्पर्शवान् भवति।
आचार्य (डॉ.) बृहस्पतिमिश्रः वायुः, प्राणः, सृष्टिप्रक्रियाक्रमः,पञ्चमहाभूतानि,वैदिककोषनिघण्टुः, निरुक्तम्, वैदिकवाङ्मयम्, व्यष्टिरूपम्, समष्टिरूपम्।। Publication Details Published in : Volume 5 | Issue 1 | January-February 2022 Article Preview
सहाचार्यः, संस्कृतपालिप्राकृतविभागः हिमाचल प्रदेश केन्द्रीय विश्वविद्यालयः, धर्मशाला,काङ्गड़ा (हि.प्र.)
Date of Publication : 2022-02-07
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 156-161
Manuscript Number : GISRRJ203347
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ203347