शक्तिविमर्शः

Authors(1) :-राजेश मण्डल

नैयायिकानां मते मुख्या जघन्या चेति द्विविधा वृत्तिः। आलङ्कारिकैः अभिधा लक्षणा व्यञ्जना भेदेन तिस्रः वृत्तयः स्वीक्रियन्ते। यद्यपि प्राचीनवैयाकरणाः सर्वेषां शब्दानां सर्वार्थवाचकत्वस्याङ्गीकारात् लक्षणाख्यवृत्त्यन्तरस्वीकारो व्यर्थः इति प्रतिपादयन्ति तथापि नव्यानां मञ्जुषादिग्रन्थेषु तिसृणां वृत्तीनां गहनातिगहनो विचारो दृश्यते। नागेशेन वृत्तिस्त्रिधा शक्तिर्लक्षणा व्यञ्जना चेति स्वकीयवैयाकरणसिद्धान्तलघुमञ्जूषायां प्रतिपादितम्। तत्र विद्यमाना शक्तिः इत्यस्याः विचारः मया सुकुमारमतिना विचारितः।

Authors and Affiliations

राजेश मण्डल
शोधच्छात्रः, व्याकरणविभागः‚ राष्ट्रियसंस्कृतविश्चविद्यालयः, तिरुपतिः, भारत

सम्बन्धः‚ वृत्तिः, अभिधा, लक्षणा, व्यञ्जना, शक्तिः।

महाभाष्यम् पृ-167

तादात्म्येव शब्दार्थयोः सम्बन्धो नादाभव्यक्तस्यान्तःकरणसन्निवेशिनः शब्दस्य अर्थबोधने कारणम्।– वाक्यपदीयम् (हरिवृषभटीका) 3.3.35

वाक्यपदीयम् 3.3.38

सम्बन्धो हि सम्बन्धिद्वयभिन्नत्वे सति द्विष्ठत्वे च सति आश्रयतया विशिष्टबुद्धिनियामकः इत्यभियुक्तव्यवहारात्। प.ल.म.पृ-37

वैयाकरणसिद्धान्तलघुमञ्जूषा पृ-21

तस्यापि पदनिष्ठशक्त्युपकारत्वाच्छक्तिरिति व्यवहारः, तस्य सम्बन्धत्वासम्भवात्। भेदाभेदरूपस्य तस्य तत्त्वासम्भवात्। तद्घटकभेदस्याभेदस्य वा तत्त्वादर्शनात्। - वैयाकरणसिद्धान्तलघुमञ्जूषा (रत्नप्रभाटीका). पृ-22

व्यापारस्तु भावनाभिधा, साध्यत्वेनाभिधीयमाना क्रिया। - वैयाकरणभूषणसारः, पृ-8

स मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिधोच्यते। - काव्यप्रकाशः, पृ-38 

तत्र सङ्केतितार्थस्य बोदनादग्रिमाभिधा। साहित्यदर्पणम् पृ-40

साक्षात् सङ्केतितविषयो मुख्यः- काव्यानुशासनम्, पृ-4

वाच्यर्थोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः।

व्यङ्ग्यो व्यञ्जनया ता स्युस्तिस्रः शब्दस्य शक्तयः। - साहित्यदर्पणम्.पृ-38

सा.मी पृ-3

रसगङ्गाधर.पृ-235

ईश्वरसंकेतः शक्तिः। शक्तिवादः,पृ-26

तत्र शक्तिः कः पदार्थः इति चेदस्माच्छब्दादयमर्थो बोधव्य इत्याकरा, इदं पदमिममर्थं बोधयतु इत्याकारा वेश्वरेच्छा। वैयाकरणसिद्धान्तलघुमञ्जूषा, पृ-26

आधुनिके नाम्नि शक्तिरस्त्येव। का.व.पृ-547

तथा सति शक्तिभ्रमं लक्षणाग्रहं चान्तरेण आधुनिकसङ्केतग्रहः।

वृ.स पृ-5

का. व.पृ- 543

वैयाकरणसिद्धान्तलघुमञ्जुषा (रत्नप्रभाटीका) पृ-17

प्रमाणानां किञ्चैवं- इदमस्माद् भवतु इतीच्छाविषयत्वमेव जनकत्वं स्यादिति बहूपल्पवः। वैयाकरणसिद्धान्तलघुमञ्जुषा पृ- 17

किञ्च प्रामाणां जनकत्वतद्घटितसम्बन्धातिरिक्तसम्बन्धेनैव प्रमेयसम्बद्धानां ज्ञानजनकत्वदर्शनेन इह तयोः सम्बन्धत्वेनौचित्यम्, अन्यथा धूमाद्वह्निमान् जायताम् इतीश्वरेच्छाविषयत्वमेव तद्बोधजनकत्वमेव वा हेतुसाध्ययोस्सम्बन्धः स्यादिति। - वैयाकरणसिद्धान्तलघुमञ्जुषा पृ-17

वैयाकरणसिद्धान्तलघुमञ्जुषा।

प्रथमा त्रिविधा तत्र रूढियोगस्तथोभयी। - कोविदानन्द, पृ- 24

वृत्तिवार्तिकम्- प-22

शास्त्रकल्पितावयवार्थनिरूपिता शक्तिर्योगः। यथा – पाचकादौ। वैयाकरणसिद्धान्तलघुमञ्जुषा-88

यत्र तु अवयवशक्तिविषये समुदायशक्तिरप्यस्ति तत् योगरूढम्। काव्यप्रकाश- पृ-584

परमलघुमञ्जुषा पृ-50

ऋग्वेद- -3.33.6

Publication Details

Published in : Volume 3 | Issue 4 | July-August 2020
Date of Publication : 2020-07-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-11
Manuscript Number : GISRRJ20341
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

राजेश मण्डल, "शक्तिविमर्शः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 4, pp.01-11, July-August.2020
URL : https://gisrrj.com/GISRRJ20341

Article Preview