कुमारसम्भवमहाकाव्ये पार्वतीदेव्याः पात्रचित्रणम् – व्यक्तित्त्वविकासः

Authors(1) :-Dr. B. Kamakshamma

प्रत्येकस्य व्यक्तेः स्वजीवने लक्ष्यमेकं भवति। तद्दीर्घकालिकं वा ह्रस्वकालिकं वा भवतु। किन्तु लोके सर्वे लक्ष्यसाधने सफलतां प्राप्नुवन्ति वा? इत्युक्ते न इत्येव समाधानम्। असफलतायाः प्राधानकारणं किमिति विचार्यते चेत् – प्रत्येकस्य कार्यस्य एका क्रमपद्धतिः भवति। तां पद्धतिमनुसृत्य कार्यं कुर्मश्चेत् नूनं सफलाः भवामः। वयं किमपि प्राप्तुंमभिलषामश्चेत् प्रप्रथमं तस्य प्राधान्यं, तस्य गुरुत्त्वं च ज्ञातव्यम्। अत एव मौर्यचन्द्रोदयमहाकाव्यस्य कर्ता पण्डित प्रभुदत्तस्वामी कथयति यत् – “कार्यं हि कर्तुं किमपि प्रवृत्तैः पुरानुमेया गुरुता तदीया” इति। प्राप्तव्यवस्तुनः माहात्म्यं जानीमश्चेत् तत् कथञ्चित् प्राप्तव्यमिति तस्मिन् अभिरुचिः वर्धते, अभिलाषा दृढा च भवति। प्रारभ्य विघ्नविहिताः विरमन्ति मध्याः इतिवत् मध्ये कार्यविमुखाः न भवामः। कार्यसाधने कः क्लेशः इत्यपि ज्ञातव्यं भवति तथा ज्ञायते चेत् वयं फलप्राप्तिपर्यन्तं कार्यात् न विमुखीभवामः। एवं कृत्त्वा तदनु कार्यसाधनाय सामग्री सज्जी करणीया भवति। ततः उद्यमः आरब्धव्यः। मध्ये विघ्नाः आयान्त्येव तथापि वयं फलप्राप्तिपर्यन्तं कार्यात् न विमुखीभवामः। कार्ये कृते सत्यपि फलं न सिध्यति चेत् प्रयत्नलोपः अस्तीति ज्ञात्वा पुनः गुरुतरप्रयत्नं कुर्मश्चेत् निश्चयेन अभीष्टफलसाधकाः भवामः। कुमारसम्भवमहाकाव्ये पार्वतीदेव्या अनुसृतः महाकार्यसाधनाक्रमः शोधलेखे2स्मिन् परिशील्यते। अतः अयं शोधलेखः पाठकानां ज्ञानप्रयिनी, प्रेरणादायिनी भविष्यतीति दृढं विश्वसिमि।

Authors and Affiliations

Dr. B. Kamakshamma
Assistant Professor, S.L.B.S.R.S.U, New Delhi, India

प्रारब्धकार्यम् , विघ्नाः, प्रयत्नलोपः,गुरुतरप्रयत्नः,कुमारसम्भवमहाकाव्यम्, पार्वतीदेवी।

1.श्री प्रभुदत्तस्वामिविरचितस्य मौर्यचन्द्रोदयमहाकाव्यस्य 

अलङ्कारशास्त्रदृष्ट्या अध्ययनम् (शोधप्रबन्धः)

राष्ट्रियसंस्कृतविद्यापीठम्

तिरुपतिः - 2008

2.कुमारसम्भवम्

3.भर्तृहरिसुभाषितानि

सङ्केताक्षरसूची

Publication Details

Published in : Volume 3 | Issue 3 | May-June 2020
Date of Publication : 2020-06-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 77-80
Manuscript Number : GISRRJ203510
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

Dr. B. Kamakshamma , "कुमारसम्भवमहाकाव्ये पार्वतीदेव्याः पात्रचित्रणम् – व्यक्तित्त्वविकासः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 3, pp.77-80, May-June.2020
URL : https://gisrrj.com/GISRRJ203510

Article Preview