आचार्याच्युतानन्ददाशविरचिताया: शुकसंविदकथायाः समीक्षा

Authors(1) :-अरूण शर्मा

सन्ति नैके विद्वन्‍मूर्धन्या: कविवरेण्या: साहित्यकुलभूषणा: कविचक्रचूडामणय: विद्वच्छिरोमणय: नानाशास्त्रेषु कृतभूरिपरिश्रमा:, ज्ञानविदग्धा: प्रज्ञावन्तः इह भूतले। किन्तु एतेषु आचार्याच्युतानन्दमहोदय: दाशोपाख्य: पुण्यश्लोक: प्रातस्मरणीयो विज्ञ: कथाकारो गौरवास्पदं पदमलङ्करोति। नानाशास्त्रप्रवीणोऽयं महामनीषी अनेकान् मनोभावान् सङ्ग्राह्य सामाजिकी: समस्या क्रोडीकृत्य कथानां संरचनामकरोत्। अच्युतानन्ददाशमहोदय: उत्कलप्रदेशे बालेश्वरमण्डले अध्ययनमारब्धवान्। मौलिकप्रतिभावान् स: चिन्तनसर्जनप्रकाशनेषु दत्तरुचि: परिस्फुरन्तं प्रतिभाविशेषं प्रोदसाहयत्। पुणे विश्वविद्यालयेऽपि आचार्यप्रवर: अधीतवान् तत्र महोदयस्य लेखनप्रतिभा आधिक्येन प्रसृता जागरिता च। कालान्तरे सितम्बरमासस्य 11 दिनाड्के या घटना सञ्जाता तया घटनया प्रभावित: सन आचार्योऽयमस्य कथासङ्ग्रहस्य प्रथमां कथां शुकसंविद् इति लिखितवान्। एषा कथा तदानीन्तन पत्रिकायां कथासरित् इति नामधेयायां प्रकाशिता। विविधसामाजिकसमस्या: स्वीयं विकटरूपं प्रकाशयन्ति महोदयस्य कथायाम्। आचार्यस्य कथासु पारम्परिकगद्यशैली परिलक्ष्यते। यथा- 'मा गामनागम्' इति कथायां पोलिथिनसमस्यामुद्घाटयति गोमाध्यमेन। यद्यपि गौ: मानव इव न ब्रूते तथापि संवेदना तु तस्यामपि भवति। सा अपि जीव एव। इतोऽपि अस्माकं समाजे गवां स्थानं विद्यते। परन्तु वर्तमानकाले गोपालनविमुखसामाजिका: दृश्यते। येन कारणेन गवां दुर्दशा भवति। अस्या: कथायां मार्मिकचित्रणं कृतं दाशमहोदयेन। अस्या: कथाया: शीर्षकमपि विलक्षणं विद्यते ' मा गामनागम्' इति। संवेदनासिक्तेन आचार्यप्रवरेण अच्युतानन्ददाशेन पूर्णमनोयोगेन कथा: विरचिता:।

Authors and Affiliations

अरूण शर्मा
शोधच्छात्र:, साहित्यविभागः, केन्द्रीयसंस्कृतविश्वविद्यालयः, भोपाल परिसरः, भोपालम्,भारतम्।

अच्युतानन्ददाशः, कृतभूरिपरिश्रमा:, ज्ञानविदग्धा:, प्रज्ञावन्तः, शुकसंविदकथा।

सन्दर्भा: -

  1. अच्युतानन्दकथासाहित्यम्
  2. श्रीमद्भगवद्गीता
  3. सुभाषितरत्नभाण्डागारम् 373/194
  4. अच्युतानन्दकथासाहित्यम्

सन्दर्भग्रन्थसूची-

  1. अच्युतानन्दकथासाहित्यम् आचार्यः अच्युतानन्ददाश: संस्कृतभारती, नवदेहली, प्रथममुद्रणम् – 2011
  2. श्रीमद्भगवद्गीता गीताप्रेस, गौरखपुर, संवत् 2058
  3. चौखम्बा संस्कृत सीरीज ऑफिस, वाराणसी द्वितीय, वि.सं. 2060, सन् 2003

Publication Details

Published in : Volume 3 | Issue 6 | November-December 2020
Date of Publication : 2020-12-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 205-211
Manuscript Number : GISRRJ2036713
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

अरूण शर्मा, "आचार्याच्युतानन्ददाशविरचिताया: शुकसंविदकथायाः समीक्षा ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 3, Issue 6, pp.205-211, November-December.2020
URL : https://gisrrj.com/GISRRJ2036713

Article Preview