स्त्रीप्रत्ययपरिचयः

Authors(1) :-डाॅ0 सन्तोष माझी

पदसाधुत्वबोधकं व्याकरणम् इति सर्वे अङ्गीकुर्वन्ति। तत्र पदानि द्विविधानि दृश्यन्ते। १. तिङन्तानि २. सुबन्तानि। तिङ् अन्ते येषां तानि – तिङन्तानि। उदा -भवति, पचति, विद्यते, पाठयति, गमयति, चिकीर्षति। सुब् अन्ते येषां तानि – सुबन्तानि। उदा – रामः, हरिः, सखा, खट्वा, माता, भ्राता, इत्यादयः। एषु सुबन्तपदेषु त्रिधा लिङ्गभेदः दृश्यते। १. पुँल्लिङ्गम्, २. स्त्रीलिङ्गम्, ३. नपुंसकलिङ्गम् इति। घञवन्तः, घाजन्तश्च (लिङ्गानुशासनम्) इति सुत्राभ्यां घञ्, अच्, अप्, एतत्प्रत्ययान्ताः पुंस भवन्तीति प्रत्यपीपदत्। तथा स्त्रियां क्तिन् (3.3.94) इत्यनेन क्तिन्नन्ताः स्त्रीत्वे भवन्तीति असूचयत्। एवं नपुंसके भावे क्तः (3.3.1143) इत्यनेन भावक्तान्तो, नपुंसके भवतीति अवोचत्। सूत्रकार एवंरीत्या शास्त्रे लिङ्गनिर्णयं चकार। परन्त्वेते कृत्प्रत्ययाः। विशिष्य पुनः स्त्रियाम् इत्यधिकारः आरब्धः। लिङ्गमेवं शास्त्रे निर्णीयते। नात्र लौकिकार्थबोधकत्वेन तत्तलिङ्गव्यपदेशः। पदार्थमात्रे सत्त्वरजस्तमोगुणाः विद्यन्ते। तेषां गुणानाम् उपचयाऽपचयसाम्यावस्थाभिः शास्त्रकारैः लिङ्गनिर्णयः कृतः। तेषामुत्कर्षे पुंस्त्वम्, उपचये स्त्रीत्वम्, तेषां स्थितिमात्रविवक्षायां नपुंसकत्वमिति व्यवह्रियते। तत्र शिष्टव्यवार एव प्रमाणम्। यदाऽऽह भर्तृहरिः – भावतत्त्वविदः शिष्टाश्शब्दार्थेषु व्यवस्थिताः। यद्यद्धर्मे गतमिति तत्तल्लिङ्गं प्रचक्षते।। वृक्षः, प्लक्षः, दाराः इत्यादिषु सर्वेषां गुणानामुत्कर्षो वर्तत इति, वाक्, गीः, पूः, इत्यादिषु गुणानामपकर्षो वर्तत इति, कलत्र, भय, लिङ्गादिशब्देषु गुणानां स्थितिमात्रविवक्षा वर्तत इति तत्तल्लिङ्गव्यवहारं शास्त्रकाराः निरणैषुः। लोके दाराशब्दः स्त्रीं बोधयति, परं पुँल्लिङ्गे विद्यते। कलत्रशब्दोऽपि स्त्रीं बोधयति, परं नपुंसकलिङ्गेऽस्ति। मित्रशब्दः सुहृद्वाचकः नपुंसकलिङ्गे दृश्यते, परं तेन स्त्रीपुरुषावुभौ बोध्येते। अतो लोके व्यवह्रियमाणः – स्तनकेशवती स्त्री स्याल्लोमशः पुरुषः स्मृतः। उभयोरन्तरं यच्च तदभावे नपुंसकम्।। इति लक्षणानि न ग्राह्याणि, किन्तु शास्त्रीयं पूर्वोक्तमेव ग्राह्यम्।

Authors and Affiliations

डाॅ0 सन्तोष माझी
सहाध्यापकः, व्याकरणविभागः राष्ट्र्रियसंस्कृतविद्यालयः, तिरुपतिः (आ. प्र.), भारत।

स्त्रीप्रत्ययपरिचयः, संज्ञा, विशेषणः, प्रत्ययः, व्याकरणग्रन्थः, प्रातिपदिकम्।

  1. अष्टाध्यायी- 3/3/94
  2. तत्रैव- 3/3/114
  3. वाक्यपदीयम्
  4. वैयाकरणसिद्धान्तकौमुदी
  5. अष्टाध्यायी- 4/1/3
  6. वैयाकणसिद्धान्तकौमुदी
  7. तत्रैव

Publication Details

Published in : Volume 4 | Issue 2 | March-April 2021
Date of Publication : 2021-04-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 144-150
Manuscript Number : GISRRJ213218
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डाॅ0 सन्तोष माझी, "स्त्रीप्रत्ययपरिचयः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 2, pp.144-150, March-April.2021
URL : https://gisrrj.com/GISRRJ213218

Article Preview