भाषाविज्ञानदृष्ट्या उत्कल-संस्कृत-मैथिलीभाषाणां द्वितीयाविभक्तिविमर्शः

Authors(1) :-गौतमकुमारराजहंस:

अस्मिन् संसारे मानवव्यवहारस्य प्रधानाधार: भाषा। मानवस्य सर्वविधचिन्तनं भाषामाध्यमेन बहिर्भूत्वा समाजं , राष्ट्रं किञ्च समग्रं विश्वमुपकरोति। एवं कस्याश्चित्भाषाया: मानकस्वरूपं ज्ञातुं व्याकरणज्ञानं यावत् अनिवार्यं ततोऽप्यधिकं भाषाविज्ञानस्य ज्ञानमनिवार्यमिति मन्ये। भाषाविज्ञानदृष्ट्या चिन्तयामश्चेत् सर्वस्यां भारतीयार्यभाषायां संस्कृतस्य महान्प्रभावो वर्तते। तत्रापि मागध्या: विकसितायां मैथिल्याम् उत्कलभाषायाञ्च भूयान्प्रभावो दृश्यते। कस्यापि भाषाप्रयोक्तु: सम्पूर्णर्थावबोधनाय प्रत्येकं भाषासु वाक्यानि प्रयुज्यन्ते । वाक्येषु यानि सुबन्तपदानि भवन्ति तानि कारकपदानि अपि उच्यन्ते । कारकज्ञानं विभक्तिज्ञानं विना वा वाक्यानि प्रयोक्तुं न शक्यन्ते। यथा संस्कृतभाषायां विभक्तयः सन्ति तथैव उत्कलभाषायां मैथिल्यां च विद्यन्ते। विभक्ति इति पूर्वाचार्यकृता संज्ञा। परम्परायाम् उक्तमस्ति – संख्याकारकबोधयित्री विभक्तिः। पाणिनीयमते तु सुप्तिङौ विभक्तिसंज्ञौ स्तः। ओडियासर्वसारव्याकरणे अपि उच्यते - याहाद्वारा संख्या ओ कारकर प्रतीति जन्मे ताहाकु विभक्ति बोलायाए। प्रायशः मैथिल्यामपि इत्थमेव परिभाष्यते। वस्तुतः मैथिलीभाषा प्रतिपदं पाणिनिव्याकरणमनुकरोति। उत्कलभाषया सह मैथिल्या अस्ति समीपतरः सम्बन्धः। न केवलम् उत्कलभाषया अपितु असमीबङ्गभाषाभ्यां साकमस्याः नैकट्यं स्पष्टतया संलक्ष्यते। वस्तुतः उत्कल-मैथिली-बङ्ग-आसामीभाषाः परस्परं न्यूनाधिक्यरूपेण साम्यं स्थापयन्ति। अतएव ग्रियर्सनमहोदयः युगपत् चतसॄणां भाषाणां व्याकरणं कर्तुं शक्यते इति प्रोक्तवान् । अत: शोधपत्रेऽस्मिन् उत्कल-संस्कृत-मैथिलीभाषाणां द्वितीयाविभक्तिविषयिणी भाषावैज्ञानिकी कीदृशी चिन्तनधारा, किञ्च साम्यं वैषम्यं वा प्रवर्तते इति समुद्घाटयितुं प्रयतिष्ये। अत्र तिसृणामपि उत्कलसंस्कृतमैथिलीभाषाणां भाषाविज्ञानदृशा द्वितीयाविभक्ते: तौलनिकमध्ययनं प्रस्तोस्यते।

Authors and Affiliations

गौतमकुमारराजहंस:
शोधार्थी, श्रीसदाशिवपरिसर:, पुरी, केन्द्रीयसंस्कृतविश्वविद्यालय:, भारत।

भाषाविज्ञानम्, संस्कृतम्, उत्कलभाषा, मैथिली, कारकम्, विभक्तिः, पाणिनि-व्याकरणम्, ओडिया सर्वसार व्याकरण, मिथिलाभाषाविद्योतनम्

  1. अष्टाध्यायी- पाणिनिः , शिवसंस्कृतसंस्थानम् , वाराणसी ,2003
  2. ओडियासर्वसारव्याकरणम्
  3. गोणिका,श्रीसदाशिवपरिसरः,पुरी,2015-16
  4. निरुक्तम् – सम्पादकः,प्रो. उमाशंकरशर्मा ऋषि, चौखम्बा विद्याभवन, वाराणसी,1989
  5. भाषाविज्ञान एवं भाषाशास्त्र – डा.कपिलदेव द्विवेदी, विश्वविद्यालय प्रकाशन, वाराणसी,2010
  6. भाषाविज्ञान तथा लिपिविज्ञान – प्रो. ब्रह्मचारी सुरेन्द्र कुमार , नालंदा मुक्त विश्वविद्यालय, पटना ,2009
  7. मिथिलाभाषा विद्योतन,दीनबंधु झा,मैथिली-साहित्य-परिषत्,दरभंगा,1993
  8. मैथिली-परिशीलन,पं.गोविन्द झा,मैथिली अकादमी ,पटना,2012
  9. लघुसिद्धान्तकौमुदी- पं.सदाशिवशास्त्री , चौखम्बा संस्कृत सीरीज ,वाराणसी ,2014
  10. वैयाकरणसिद्धान्तकौमुदी – डा. अर्कनाथ चौधरी , जगदीश संस्कृत पुस्तकालय , जयपुर,2015
  11. संस्कृतभाषाविज्ञानम् – चक्रवर्ती श्रीरामाधीनचतुर्वेदी , चौखम्बा विद्याभवन, वाराणसी,2011
  12. Linguistic Analysis of Paninian Grammar – Dr.Shashibhushan Mishra , The Banaras Mercantile Co. Kolkata,2012
  13. Outlines of linguistic analysis, B.Bloch & G.L.Trager, Linguistic Society of America, 1942

Publication Details

Published in : Volume 4 | Issue 3 | May-June 2021
Date of Publication : 2021-05-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 10-18
Manuscript Number : GISRRJ21333
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

गौतमकुमारराजहंस: , "भाषाविज्ञानदृष्ट्या उत्कल-संस्कृत-मैथिलीभाषाणां द्वितीयाविभक्तिविमर्शः", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 3, pp.10-18, May-June.2021
URL : https://gisrrj.com/GISRRJ21333

Article Preview