Manuscript Number : GISRRJ2145710
गृहप्रवेशविचारः
Authors(1) :-प्रो.प्रभातकुमारमहापात्रः प्रवेशकाले नक्षत्रस्य शुभाशुभज्ञानाय सूर्यनक्षत्रतः चन्द्रनक्षत्रं यावत् गणयित्वा कुम्भचक्रस्य निर्माणं क्रियते। अर्थात् प्रवेशकालिकलग्नचक्रे सूर्यचन्द्रौ कस्मिन् नक्षत्रे स्थितौ स्तः इति द्रष्टव्यं भवति। तत्र कुम्भचक्रे घटस्य मुखाद्यवयवानां चिन्तनमपि भवति। तद्यथा यदि सूर्यनक्षत्रात् चन्द्रनक्षत्रं प्रथमं नक्षत्रं भवति। अर्थात् सूर्यनक्षत्रमेव गृहप्रवेशस्य चन्द्रनक्षत्रं स्यात्तदा नक्षत्रं घटस्य मुखे चिन्तयेत् । तस्य फलम् अग्निदाहो भवति। तदग्रिमानि चत्वारि नक्षत्राणि घटस्य पूर्वे चिन्तयेत्, तस्य फलं प्रवासः स्यात्। तदनन्तरं चत्वारि नक्षत्राणि ( सूर्यनक्षत्रः चन्द्रनक्षत्रं यदि षड्संख्यातः नव संख्यां यावत् स्यात्तदा ) घटस्य दक्षिणभागे कल्पयेत्, तस्य फलं लाभः। ततः अग्रिमचत्वारि नक्षत्राणि ( दशसंख्यातः त्रयोदशसंख्यां यावत् ) कुम्भस्य पश्चिमे कल्पयेत् तत्र प्रवेशनक्षत्रे सति धनप्राप्तिं विजानीयात्। तदग्रिमचत्वारि नक्षत्राणि (यदि सूर्यनक्षत्रतः चन्द्रनक्षत्रं यदि चतुर्दशसंख्यातः सप्तदशसंख्यामध्ये स्यात्तदा ) कुम्भस्योदरे चिन्तयेत् यस्य फलं गृहविनाशः भवेत्। कुम्भस्य गुदाभागे ( निम्नस्थाने ) तदग्रिमाणि नक्षत्राणि कल्पयेत् । तत्र प्रवेशनक्षत्रे सति फलं गृहस्य स्थिरत्वं भवति, कुम्भस्य कण्ठे तदग्रिमाणि त्रीणि नक्षत्राणि परिकल्पयेत् । तत्र प्रवेशनक्षत्रे सति नित्यं गृहस्य स्थैर्यं जानीयादिति भावः।
प्रो.प्रभातकुमारमहापात्रः गृहप्रवेशविचारः,गृहविनाशः,विधिः,कालशुद्धिः,शुभः,ज्ञापकः,अर्थलाभः। Publication Details Published in : Volume 4 | Issue 5 | September-October 2021 Article Preview
ज्योतिषविभागाध्यक्षः, श्रीरणवीरपरिसरः, जम्मूः
Date of Publication : 2021-09-15
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 211-236
Manuscript Number : GISRRJ2145710
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ2145710