जयभारतादर्शे वीरसन्देशः

Authors(1) :-शुभो वनिक्

गद्य-पद्ययोः मिश्रशैल्याः निदर्शनं वैदिककालादारभ्य आधुनिककालपर्यन्तं निरन्तरं प्रवहमानं वर्तते। तदनुगुणं बहुविधचम्पूकाव्यानां विरचनम् अद्यावधि क्रियमाणमस्ति। आधुनिकसमये तस्य न्यूनास्तित्त्वेऽपि परम्परा अविच्छिन्ना अस्ति। एवमेव आधुनिककविना विद्वन्मूर्धन्येन श्रीफाल्गुनगोस्वामिना विरचिता जयभारतादर्शचम्पूः अभिनवसंस्कृतसाहित्यस्य अद्वितीयम् ऐतिहासिकं चम्पूकाव्यमस्ति। यद्यपि स्वदेशस्य मातृभूमेश्च कृते प्राणोत्सर्जनकारिणां वीराणां गाथामवलम्व्य काव्यरचना राजस्थानस्य साहित्यिकी परम्परास्ति। तदनुरूपमेव कविः चम्पूकाव्येऽस्मिन् भारतवीराणाम् देशभक्तेः आत्मबलिदानस्य च प्रबन्धकल्पनां सजीवचित्रणैः अचिचित्रित्। भारत-पाकिस्तानयोर्मध्ये सीमाविवादात् उद्भूतः संघर्षः अस्य जयभारतादर्शचम्पूकाव्यस्य प्रधानविषयः विद्यते। काव्यस्यास्य कथावस्तु मेजर् सीतारामचौधुरी इत्यनेन विरचितं पुस्तकं भारत-पाक संघर्ष तथा विभिन्नसमाचारपत्रेषु प्रकाशितं युद्धवृत्तान्ताधारितं वर्तते। भारतस्योपरि चीनस्य विश्वासघातपूर्णम् आक्रमणम् एवंञ्च भारतीयप्रदेशेषु पाकिस्तानस्य गृध्रदृष्टिकारणात् समुत्पन्नानेकप्रकाराणां संघर्षाणां वर्णनं काव्यमय्या शैल्या कविनात्र गुम्फितम्। अष्टादशपर्वसु विरचितस्यास्य चम्पूकाव्यस्य अनुशासननाम्नि पर्वणि फाल्गुनमहोदयः अस्माकं वीराणां गर्वोद्दीपितैः शब्दैः प्रकृतिचित्रणैश्च तेषां सन्देशान् अस्माकं आधुनिकभारतनिर्मातृणां कृते अयच्छत्।

Authors and Affiliations

शुभो वनिक्
शोधच्छात्रः , राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः, भारत।

चम्पूकाव्यम्, वीर-भारतसिंहस्य वर्णदूतम्, वीरस्य स्वदयितायै वर्णदूतम्, वीरसुखवीरसिंहस्य पत्रम्, भारतस्य शौर्यपरम्परा इत्यादयः।

  1. जयभारतादर्शः, गोस्वामिफाल्गुनभट्टविरचितः, आदर्श मुद्रणालय, तेलीवाडा मार्ग, बाकानेर।
  2. संस्कृत साहित्य का समीक्षात्मक इतिहास,डा. कपिलदेव द्विवेदी,वाराणसी।
  3. काव्यप्रकाशः, मम्मटाचार्यविरचितः, डा. श्रीनिवासशास्त्रिणा सम्पादितः, साहित्यभण्डार, सुभाष बाजार, मेरठ।
  4. साहित्यदर्पण, विश्वनाथविरचित, चौखम्बा विद्याभवन, वाराणसी।
  5. संस्कृत साहित्य का इतिहास, बलदेव उपाध्याय, शारदा मंदिर, वाराणसी, 1969।
  6. A History of Sanskrit Literature,B.Keith, Oxford University Press, Amem House, London,E.C4.
  7. A Companion to Sanskrit Literature, Suresh Chandra Banerjee, मोतीलाल बनारसीदास पब्लिशस् प्रा. लि., 2016.

Publication Details

Published in : Volume 6 | Issue 4 | July-August 2023
Date of Publication : 2022-07-15
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 05-10
Manuscript Number : GISRRJ23642
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

शुभो वनिक्, "जयभारतादर्शे वीरसन्देशः ", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 6, Issue 4, pp.05-10, July-August.2023
URL : https://gisrrj.com/GISRRJ23642

Article Preview