Manuscript Number : GISRRJ24746
आधुनिकसमाजस्य समुन्नतये स्वास्थ्य संरक्षणे च योगकुण्डलिन्युपनिषदः योगदानम्
Authors(1) :-डॉ. डि. ज्योति
उप-नि-पूर्वकस्य विशरणगत्यवसादनार्थकस्य षद्लृ धातोः क्विप् प्रत्ययेन उपनिषच्छब्दस्य निष्पत्तिरिति शङ्कराचार्यः। उपशब्दस्य सामीप्यं सत्वरं वा अर्थः निशब्दश्च निश्चयार्थकः तेन सत्वरं निश्चयेन संसारिणां संसारसारमतिं सादयति विशादयति शिथिलयतीति, परमश्रेयोरूपं प्रत्यगात्मानं सादयति गमयतीति, दुःखजन्मादिमूलमज्ञानं सादयति नाशयतीति वा उपनिषत्पदवाच्या। उपनिषद्विद्या भवति ब्रह्मविद्या रहस्यविद्या वा। कोऽहम्। कुतः आयातः। कथं हि भवेत् सुखप्राप्तिः। दुःखनिराकरणं वा कथं स्यात्। इति मानवानां अध्यात्मविषयिणी जिज्ञासा उपनिषत्सु आलोचिता। वेदविषयान् आधारी कृत्य प्रत्येकं वेदः चतुर्धा विभक्तः यथा- संहिता, ब्राह्मणम्, आरण्यकम्, उपनिषत् च इति। आरण्यकस्यापि सारभूता वर्तते उपनिषत्। आरण्यके आरब्धा अध्यात्मतत्त्वालोचना उपनिषत्सु एव परां स्फूर्ति लभमाना परिसमाप्ता। वेदस्य अन्तिमत्वात् लक्ष्यत्वात् वा इयम् उपनिषद् वेदान्त इत्यपि कथ्यते। (वेदस्यान्तः वेदान्तः, अन्तशब्दस्य द्विविधोऽर्थः सारभागः, अन्तिमांशो वा।) कृष्णयजुर्वेदप्रविभक्तेयं योगकुण्डल्युपनिषत् हठलम्बिकायोगयुक्तः निर्विशेषबह्ममात्रपर्यवसन्ना विजयते। अस्याः संक्षेपतो विवरणमारभ्यते।
डॉ. डि. ज्योति
मिताहारः, आसनम्, शक्तिश्चालनम्, प्राणाभ्यासः, कुण्डलिनी, प्राणायामः इत्यादयः। (श्री उपनिषद्ब्रह्मयोगिविरचितव्याख्यायुताः) अडयार्-पुस्तकालयाध्यक्षेण अ. महादेवशास्त्रिणा सम्पादिता। (श्री उपनिषद्ब्रह्मयोगिविरचितव्याख्यायुताः) अडयार्-पुस्तकालयाध्यक्षेण अ. महादेवशास्त्रिणा सम्पादिता। Publication Details Published in : Volume 7 | Issue 4 | July-August 2024 Article Preview
सहायिकाचार्या, साङ्ख्ययोगविभागाध्यक्षा, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः
Date of Publication : 2024-08-20
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 39-46
Manuscript Number : GISRRJ24746
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ24746