सस्कृत भाषायां शिक्षणमहत्त्वम्

Authors(1) :-डाॅ. पवन कुमारः

आचार्यदेवो भव इति अभियुक्तोक्तिः आचार्यस्य देवत्वं प्रतिपादयति। प्रतिष्ठितः आचार्यः स्वशिष्यान् विद्याबलेन योग्यं कुरुते। स एव आचार्यः सम्मानितः भवति यः ज्ञानेन सह उत्तमः सम्प्रेषकः भवति। सम्प्रेषणञ्च शिक्षणस्य प्राणाः। यथा प्राणत्वाभावे जीवनाभावः, तथैव सम्प्रेषणाभावे शिक्षणाभावः। शिक्षणस्य सम्पूर्णफलप्राप्त्यर्थम् उत्तमं सम्प्रेषणं भवेत्। सम्प्रेषणेऽपि सम्प्रेषणप्रक्रियायाः महत्त्वं वरीवर्ति। प्रभावशालिसम्प्रेषणस्य सिद्धान्ताः सम्प्रेषणं वैज्ञानिकरीत्या निरूपयन्ति। तेनैव सह उत्तमसम्प्रेषणे कानिचन बाधकतत्त्वानि अपि लक्ष्यीक्रियन्ते। सम्प्रेषणे कानिचन महत्त्वपूर्णानि प्रतिमानानि अपि दरीदृश्यन्ते, येषां प्रयोगैः उत्तमं प्रभावोत्पादकञ्च सम्प्रेषणं भवितुमर्हति। नैकैः माध्यमैः सम्प्रेषण्ंा जायते। शिक्षकस्यापि इदं प्रमुखं दायित्वं भवति यत् सः उत्तमतया विषयस्य सम्प्रेषणं कुर्यात्। आवश्यकतायां सत्यामपेक्षितानि परिवर्तनानि समासाद्य छात्राधिगमः उत्तमतया यथा जायेत तदर्थं प्रत्यहं प्रयासरतः भवेत्। तदीयैः यत्नैः कक्ष्यायां शिक्षणेन सह अनुशासनमपि समानेतुं शक्यते। विषयस्यावगमनाभावे एव अधिगमेन सह अनुशासनमपि कक्ष्यासु बाधितं भवति। अतः शिक्षणे सम्प्रेषणस्य महत्त्वं वास्तविकरूपेण प्रतिबिम्बितंदृश्यते।

Authors and Affiliations

डाॅ. पवन कुमारः
सहायकाचार्यः,राष्ट्रियसंस्कृृतसंस्थानम््, भोपालपरिसरः, भोपालम्, भारत

शिक्षणम्, सम्प्रेषणम्, सम्प्रेषणप्रक्रिया।

Publication Details

Published in : Volume 2 | Issue 1 | January-February 2019
Date of Publication : 2019-01-01
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 26-33
Manuscript Number : GISRRJ19214
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डाॅ. पवन कुमारः, "सस्कृत भाषायां शिक्षणमहत्त्वम्", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 1, pp.26-33, January-February.2019
URL : https://gisrrj.com/GISRRJ19214

Article Preview