समाजे आश्रमधर्मस्य प्रासङ्गिकता

Authors(1) :-डा. सुधांशुशेखरमहापात्रः

प्रथमपुरुषार्थरूपस्य धर्मस्य प्रतिपादकत्वेन वेदाङ्गत्वेन च धर्मशास्त्रं भारतवर्षे सुविख्यातधर्मप्रमाणत्वेन गृह्यते। श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिरिति १मनुवचनात् धर्मशास्त्रस्य स्मृतिरेव अपरा संज्ञा। यद्यपि धर्मे मुख्यं प्रमाणं श्रुति: तथापि तदनुमापकत्वेन स्मृति: धर्मे प्रमाणं भवति। अत: श्रुतिप्रतिपादितो धर्मः श्रौतधर्म: तथा च स्मृतिप्रतिपादित: धर्मः स्मार्त्तधर्म इति जगति प्रसिद्धः। स च स्मार्त्तधर्म: याज्ञवल्क्यस्मृतिटीकाकारेण २विज्ञानेश्वरेण षोढा विभक्तः। यथा- वर्णधर्मः, आश्रमधर्मः, वर्णाश्रमधर्मः, गुणधर्मः, निमित्तधर्मः, साधारणधर्मश्चेति। तेषां समेषां धर्माणां समाजे उपयोग आसीत्, अस्ति स्थास्यति च। तेषु मया समाजे आश्रमधर्मस्य प्रासङ्गिकताविषये शोधलेखोऽयं प्रस्तुतः।

Authors and Affiliations

डा. सुधांशुशेखरमहापात्रः
सहाचार्यः, धर्मशास्त्रविभागः, राष्ट्रियसस्कृतविद्यापीठम् ,तिरुपति:, भारत

१.मनुस्मृतिः- चौखम्बा संस्कृत संस्थान, वाराणसी, २००३
२.मिताक्षरा(याज्ञ.टीका)- नागप्रकाशन, दिल्ली, १९८५
३.याज्ञवल्क्यस्मृतिः- नागप्रकाशन, दिल्ली, १९८५

Publication Details

Published in : Volume 2 | Issue 2 | March-April 2019
Date of Publication : 2019-03-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 25-28
Manuscript Number : GISRRJ19226
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

डा. सुधांशुशेखरमहापात्रः, "समाजे आश्रमधर्मस्य प्रासङ्गिकता", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 2, Issue 2, pp.25-28, March-April.2019
URL : https://gisrrj.com/GISRRJ19226

Article Preview