योगशास्त्रे प्रतिपादितानाम् अन्तःकरणस्य पञ्चवृत्तीनां विषये वेदान्तशास्त्रदृष्ट्या विमर्शः, तस्मिन् विषये आयुर्वेदशास्त्रस्य विचाराश्च

Authors(1) :-प्रज्वलः जे

वेदान्तशास्त्रं नाम उपनिषत्प्रमाणं तदुपकारकाणि शारीरकसूत्रादीनि। तानि सर्वाणि जीवस्य स्वरूपं ब्रह्माभिन्नमात्मानं प्रतिपादयन्ति। योगशास्त्रम् अन्तःकरणस्य समाधिद्वारा कैवल्यं प्रतिपादयति। आयुर्वेदशास्त्रं शरीरस्य मनसः च स्वास्थ्यसंरक्षणाय उपायान् प्रदर्शयन्, साधकं मोक्षमार्गे नयति। एवं च एषां त्रयाणामपि शास्त्राणां लक्ष्यं परमपद-अवाप्तिरेव इति गम्यते। परमपद-अवाप्तये अन्तःकरणमपि प्रधानं कारणं भवति। अन्तःकरणस्य वृत्तयः अखण्डब्रह्माकारेण परिणताः कारणानि भवन्ति। तत्र विशेषेण योगशास्त्रे वृत्तीनां पञ्चान् विभागान् कृत्वा चिन्तनं क्रियते। अस्मिन् शोधपत्रे योगशास्त्रेकृताः वृत्तीनां पञ्चापि विभागाः वेदान्तशास्त्रदृष्ट्या विचार्यन्ते। तेन सह तेषु विभागेषु आयुर्वेदशास्त्रस्यापि विचाराः अत्र विमृश्यन्ते। अस्य शोधप्रबन्धस्य अध्ययनेन अन्तःकरणवृत्तिविषये त्रयाणामपि शास्त्राणां वादाः, एकमत्यं विरोधाश्च ज्ञाताः भवन्ति। अपि च श्रुति-युक्ति-अनुभवैः कस्य मतस्य प्रामाण्यं स्वीकर्तुं शक्यमित्यपि प्रबन्धेन अनेन ज्ञातुं शक्यते। एवं शोधप्रबन्धमिदं लोकोपयोगाय भवतु इति इत्याशासे।

Authors and Affiliations

प्रज्वलः जे
शोधच्छात्रः, श्रिङ्गेरी परिसरः, केन्द्रीयविश्वविद्यालयः,न्यूदेल्ली‚भारत।

वेदान्तः, योगः, अयुर्वेदः, आत्मा, जीवः, ब्रह्म, अविद्या, मिथ्या, अन्तःकरणम्, वृत्तिः, प्रमाणम्, प्रत्यक्षम्, अनुमानम्, उपमानम्, आगमः, अर्थापत्तिः, अनुपलब्धिः, विपर्ययः, विकल्पः, निद्रा, स्मृतिः, अध्यासः, बन्धः, कैवल्यम्, मोक्षः

  • उपनिषद्भाष्यम् (खण्ड १,२,३) श्री मणिद्रविड सम्पादितम् / अद्वैतग्रन्थरत्नमञ्जूषा २ / प्रकाशनम् - महेश अनुसन्धान संस्थानम्(श्री दक्षिणामूर्तिमठ प्रकाशन), वारणासी / द्वितीयं संस्करणम्।
  • श्रीमद्भगवद्गीता (शाङ्करभाष्य-अष्टटीकाभ्यः उपेता) श्री वासुदेवशर्मणा संस्कृतम् / व्रजजीवन प्राच्यभारती ग्रन्थमाला ६४ / प्रकाशनम् - चौकम्बा संस्कृत प्रतिष्ठान, दिल्ली / पुनर्मुद्रित संस्करण २०१६
  • ब्रह्मसूत्रशांकरभाष्यम्(भाष्यरत्नप्रभा-भामती-न्यायनिर्ण-व्याख्योपेता) श्री अचार्यजगदीशशास्त्रिणा सम्पादितम् / प्रकाशनम् - मोतिलाल बनारसीदास,दिल्ली / प्रथम मुद्रण - १९८० , पुनर्मुद्रण – २००५।
  • अद्वैतसिद्धिः (बालबोधिनी व्याख्योपेता, प्रथमो भागः) शेखरदेवशर्मणा सम्पादितम् / प्राच्यभारती ग्रन्थमाला – १२ / प्रकाशनम् - रत्ना पब्लिकेशन्, वारणासी / द्वितीयं मुद्रणम् २००७।
  • सर्वदर्शनसङ्ग्रहः श्री टि.जि मायांकर् सम्पादितम् / राजकीया प्राच्यग्रन्थश्रेणिः - “ए” १ / प्रकाशनम् - भण्डारकरप्राच्यविद्यासंशोधनमन्दिरम्, पुणे,१९७८ / तृतीयं मुद्रणम्।
  • पञ्चदशी वासुदेवशर्मणा संस्कृतम् / हरिदास संस्कृत ग्रन्थमाला – ३२८ / प्रकाशनम् - संस्कृत सीरिज आफीस, वारणासी / संस्करणम् – २००९।
  • ವೇದಾಂತಸಾರ ಸ್ವಾಮೀ ಹರ್ಷಾನಂದ ಸಂಪಾದಿತ / ಪ್ರಕಾಶನ - ಶ್ರೀ ರಾಮಕೃಷ್ಣಾಶ್ರಮ, ಮೈಸೂರು / ನಾಲ್ಕನೆಯ ಮುದ್ರಣ.
  • चरक संहिता डा॥यादवजी त्रिकमजी आचार्य सम्पादित / काशी संस्कृत ग्रन्थमाला -१९४ / प्रकाशनम् - चौकम्बा संस्कृत संस्थान, वारणासी / संस्करण - पुनर्मुद्रित,वि.सं. २०७३।
  • सुश्रुतसंहिता काशी संस्कृत ग्रन्थमाला -१५६ / प्रकाशन - चौकम्बा संस्कृत संस्थान, वारणासी / संस्करण - पुनर्मुद्रण, वि.सं. २०७५।
  • पातञ्जलयोगदर्शनम् (व्यासभाष्यसहितम्) काशी संस्कृतग्रन्थमाला – २०१ / प्रकाशन - चौकम्भा प्रकाशन, वारणासी / संस्करण - पुनर्मुद्रित, वि.स २०७४।

Publication Details

Published in : Volume 4 | Issue 5 | September-October 2021
Date of Publication : 2021-09-30
License:  This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 01-15
Manuscript Number : GISRRJ21451
Publisher : Technoscience Academy

ISSN : 2582-0095

Cite This Article :

प्रज्वलः जे , "योगशास्त्रे प्रतिपादितानाम् अन्तःकरणस्य पञ्चवृत्तीनां विषये वेदान्तशास्त्रदृष्ट्या विमर्शः, तस्मिन् विषये आयुर्वेदशास्त्रस्य विचाराश्च", Gyanshauryam, International Scientific Refereed Research Journal (GISRRJ), ISSN : 2582-0095, Volume 4, Issue 5, pp.01-15, September-October.2021
URL : https://gisrrj.com/GISRRJ21451

Article Preview