Manuscript Number : GISRRJ225624
शैक्षिकमनोविज्ञाने अधिगमविधिषु निरीक्षणविधेः महत्वम्
Authors(1) :-डॅा. दत्तहरि बेहेरा "शिक्षा घ्राणं तु वेदस्य" अर्थात् वेदरूपीपुरुषस्य घ्राणः इतीयमुपमा प्रदता। यद्यपि वेदाङ्गदृष्टौ अक्षराणां शब्दानां च विशेषज्ञानप्राप्तिः शिक्षा भवति। यस्य पुष्टिः "एकः शब्द सम्यग् ज्ञातः शास्त्रान्वितः सुप्रयुक्त स्वर्गे लोके च कामदुग्धा भवति"। एतदर्थं शिक्षा एकः वैदिकशब्दः। यस्य सर्वप्रथमप्रयोगः ऋग्वेदेषु अभवत्। "शिक्ष विद्योपादाने" इति धातोः टाप् प्रत्ययात् शिक्षा इति शब्दः निष्पन्नः। तदनुसारं शिक्षयते उपादीयते विद्या यया सा शिक्षा। अर्थात् येन विद्या उपार्जनं क्रियते, सा अज्ञानरूपि बन्धनात् मुक्तिप्रदात्री भवति। अधिगम प्रदानस्यापेक्षया स्वतः अधिगमस्य (Self Learning) योग्यतोपरि बलं दीयते। तदर्थं प्रत्येकं बालकस्य शिक्षणाय वैयक्तिकावधानं परमावश्यकम्। व्यक्तिगतशिक्षणं शिक्षामनोविज्ञानेनैव सम्भवति। शिक्षायाः उद्देश्यमस्ति यत् बालके सक्रियतया जन्मजातशक्तीनां विकासकरणमेव। अतएव शिक्षाप्रदानस्य प्रक्रिया अपि जटिला सञ्जाता। अतः एतादृश्यां परिस्थितौ अध्यापकानां कर्तव्यं भवति यत् ते बालकस्य शारीरिक - मानसिक - योग्यता - रुचिनामध्ययनं कृत्वा तस्य क्षमतानां योग्यतानाञ्चानुरूपेण शिक्षयेयुः। मानवीयव्यवहारं परिशीलयति मनोविज्ञानशास्त्रम् । शिक्षा व्यवहारस्य विपरिणाम सम्पादने महत्वपूर्णं साधनं भवति । अतः अनयोर्मध्ये अत्यन्त निकटतमः सम्वन्धः वर्त्तते। बालमनोविज्ञानं विना अध्यापकैः स्वीय कार्यं सुष्ठु सम्पादयितुं न शक्यते । स्वाभिलषितरीत्या छात्रेषु व्यवहारसंपादनाय मनोविज्ञानस्य ज्ञानमनिवार्यं भवति। मनोविज्ञान माध्यमेन अधिगमःसम्भवति। अधिगम निमित्तं नैके विधयः वर्तन्ते,तेषु निरीक्षणविधिःअन्यतमः। निरीक्षणस्य परिस्थितिः, प्रक्रमः आवश्यकोपकरणानाम् आधारेण विविधपद्धतयः समुद्भूताः। यथा - काचित् व्यक्तिः स्वव्यवहारस्य निरीक्षणं स्वयं करोति चेत् आत्मावलोकनम् इति कथ्यते। काचित् व्यक्तिः अन्यस्य निरीक्षणं करोति चेत् निरीक्षणपद्वतिः इत्युच्यते। एतस्य शोधसारस्य वर्णंनं शोधपत्रे करिष्यते।
डॅा. दत्तहरि बेहेरा शैक्षिकमनोविज्ञानः, अधिगमविधिः, निरीक्षणविधिः। Publication Details Published in : Volume 5 | Issue 5 | September-October 2022 Article Preview
सहाध्यापकः,शिक्षाशास्त्रविभागः, श्रीजगन्नाथसंस्कृतविश्वविद्यालयः, पुरी।
Date of Publication : 2022-09-15
License: This work is licensed under a Creative Commons Attribution 4.0 International License.
Page(s) : 129-132
Manuscript Number : GISRRJ225624
Publisher : Technoscience Academy
URL : https://gisrrj.com/GISRRJ225624